सामग्री पर जाएँ

वन्दारुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वन्दारुः, त्रि, (वन्दते स्तौति अभिवादयतीति । वन्द + “शृवन्द्योरारुः ।” ३ । २ । १७३ । इति आरुः ।) वन्दनशीलः । तत्पर्य्यायः । अभि- वादकः २ । इत्यमरः । ३ । १ । २८ ॥ अभि- वादयिता ३ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १ । १४७ । २ । “पीयति त्वो अनुत्वो गृणति वन्दारुस्त तन्वं वन्दे अग्ने ॥” स्तोत्रे, क्ली । इति ऋग्वेदभाष्ये सायणः । ४ । ४३ । १ ॥)

"https://sa.wiktionary.org/w/index.php?title=वन्दारुः&oldid=163852" इत्यस्माद् प्रतिप्राप्तम्