सामग्री पर जाएँ

वप्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वप्रम्, क्ली, पुं, (उप्यतेऽत्रेति । वप + “वृषिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन् ।) दुर्ग- नगरे परिखाया उद्धृतमृत्तिकास्तूपबद्धे यदु- परि प्राकारो निवेश्यते तत् । तथा चार्थ- शास्त्रम् । ख्यातादुद्धृतमृदा वप्रं कारयेत् तस्यो- परि प्राकारमिति । तत्पर्य्यायः । चयः २ । इत्यमरभरतौ ॥ मृत्तिकास्तूपः ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५०५ । “लग्नं जघने तस्याः सुविशाले कलितकरि- करक्रीडे । वप्रे सक्तं द्विपमिव शृङ्गारस्तां विभूषयति ॥”) महावप्रो यथा, -- “महोद्यानां महावप्रां तडागशतशोभिताम् । प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम् ॥” महान् वप्रो यस्याः । “प्राकाराधारभूता कृत्रिमोच्छ्रिता भूमि- र्व्वप्रसंज्ञा ॥” इति विष्णुपुराणे ५ अंशे २३ अध्याधे ॥ * ॥ वपति बीजमत्र । क्षेत इति भाषा । तत्- पर्य्यायः । केदारः २ क्षेत्रम् ३ । इत्यमरभरतौ ॥ निष्कुटः ४ वनजम् ५ वाजिका ६ पाटीरः ७ । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । १९ । १६ । “शालीक्षुमत्यपि धरा धरणीधराभ- धाराधरोज्ज्वितपयः परिपूर्णवप्रा ॥”) रेणुः । तटः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, किराते । ७ । ११ । “तत् पूर्ब्बं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्त्तनं पयोभिः ॥” पर्व्वतसानुः । यथा, किराते । ५ । ३६ । “नानारत्नज्योतिषां सन्निपातै- श्छन्नेष्वन्तः सानुवप्रान्तरेषु ॥”)

वप्रम्, क्ली, (वप् + “वृधिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन्) सीसकम् । इति हेम- चन्द्रः । ४ । ४६ ॥ (तथास्य पर्य्यायान्तरम् । “सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=वप्रम्&oldid=163883" इत्यस्माद् प्रतिप्राप्तम्