सामग्री पर जाएँ

वब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वबः, पुं, एकादशकरणान्तर्गतप्रथमकरणम् । अस्याधिपतिरिन्द्रः । तत्र विहितानि यथा, -- “पौष्टिकस्थिरशुभानि वबाख्ये ।” इति ज्योतिस्तत्त्वम् ॥ अत्र जातफलम् । “वबाभिधाने जननं हि यस्य शूरोऽतिधीरो मनुजः कृती स्यात् । पद्मालया तन्निलये निवाम्रं करोति नित्यं सुविचक्षणः स्यात् ॥” इति कोष्ठीप्रदीपः ॥ दाक्षिणात्यमते अस्य शब्दस्य प्रथमबकारः पवर्गीयः शेषवकारोऽन्तःस्थः ॥

"https://sa.wiktionary.org/w/index.php?title=वब&oldid=163889" इत्यस्माद् प्रतिप्राप्तम्