सामग्री पर जाएँ

वयोधाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वयोधाः, [स्] पुं, (वयो यौवनं दधातीति । वयम् + धा + “वयसि धाञः ।” उणा० ४ । २२८ । इति असिः । स च डित् ।) युवा । इत्युणादि- कोषः ॥ (अन्नम् । यथा, वाजस्ननेयसंहिता- याम् । १५ । ७ । “वयोधसाधीतेनाधीतं जिन्व ।” “वयोधसा वयो दधाति पुष्णाति वयोधा अन्नं तेनाधीतेनाध्ययनायोपहिताधीतं जिन्व ॥” इति तद्भाष्ये महीधरः ॥ आयुर्दातरि, त्रि । यथा, वाजसनेयसंहितायाम् । २८ । २४ । “अग्निमिन्द्रं वयोधसम् ॥” “दैव्यो होता अग्निं वयोधसमिन्द्रञ्च यजतु वय आयुर्दधाति वयोधास्तमायुषो दातारं धारयि- तारं वा ।” इति तद्भाष्ये महीधरः ॥)

"https://sa.wiktionary.org/w/index.php?title=वयोधाः&oldid=163923" इत्यस्माद् प्रतिप्राप्तम्