वरणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरणः, पुं, (व्रियते अनेन वृणोतीति वा । वृ + “सुयुरुवृञो युच् ।” उणा० २ । ७४ ॥ इति युच् ।) प्राकारः । वरुणवृक्षः । इत्यमरः । २ । २ । ३ । (यथा, किराते । ५ । २५ । “इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥”) उष्ट्रः । इति हारावली । ८१ ॥ संक्रमः । इति हलायुधः ॥ सा~को इति भाषा ॥
