सामग्री पर जाएँ

वरणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वरणम्, क्ली, (वृ + भावे ल्युट् ।) कन्यादिवरणम् । (यथा, महाभारते । १ । १९० । ७ । “न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्त्रियाणामितीयं प्रथिता श्रुतिः ॥”) वेष्टनम् । इति मेदिनी । णे, ६५ ॥ पूजनादि । इति शब्दरत्नावली ॥ * ॥ अथ वरणविधिः । तेषा- माचार्य्यादीनां होमसाध्ये कर्म्मणि होमा- रम्भात् पूर्ब्बमानत्यर्थं यजमानेन स्वयं वरणं कार्य्यम् । दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं प्रतीयात् । इति हरिशर्म्मधृतकात्या- यनसूत्रात् । तत्र ब्रह्मवरणं प्रथमतः । ज्योति- ष्टोमे । ब्रह्मोद्गातृहोत्रध्वर्य्य्वित्यादिक्रमदर्शने- नान्यत्राकाङ्क्षया दृष्टपरिकल्पनाया न्याय्य- त्वात् । सुगतिसोपानप्रभृतयोऽप्येवम् । वरणन्तु । गन्धादिदानद्बारा प्रीतिमुत्पाद्य कर्म्मकरणाय- प्रेरणम् । तत्र च । सर्व्वत्र प्राङ्मुखो दात ग्रहीता च उदङ्मुखः । इति वचनात् यज- मानस्य प्राङ्मुखत्वं आचार्य्यादीनामुदङमुखत्वं प्रतीयते । वरणविधिमाह कात्यायनः । आसन- माहार्य्य आह साधु भवानास्तामर्च्चयिष्यामो भवन्तमिति । आसनमाहार्य्यानीय संस्थाप्याह साधु भवानास्तामिति । साध्वहसासे इति प्रतिवचनम् । अर्च्चयिष्यामो मवन्तमिति पुन- रुक्ते अर्च्चय इति प्रतिवचनं सामर्थ्यात् । इति हरिशर्म्मा । इति संस्कारतत्त्वम् ॥ * ॥ मेदिनीमते पवर्गीयबकारादिशब्दोऽयम् । किन्तु अन्तः स्थवकरादिवृधातोरनट्प्रत्ययेन निष्पन्न- त्वादत्र लिखितः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वरणम् [varaṇam], [वृ-ल्युट् ल्यु वा Uṇ.2.71]

Choosing, selecting.

Begging, soliciting, requesting.

Surrounding, encircling.

Covering, screening, protecting.

The choice of a bride.

Worshipping (of priests &c.).

Keeping off, prohibiting, warding.

णः A rampart, surrounding wall; वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रि- रागताम् ...... उवास N.2.86.

A bridge.

The tree called Varuṇa; Rām.2.94.9; see वरुण (Mar. वायवर्णा).

A tree in general; इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः Ki.5.25.

A camel.

A kind of ornament on a bow.

N. of Indra.

A particular magical formula recited over weapons. -Comp. -माला, -स्रज् See वरस्रज्.

"https://sa.wiktionary.org/w/index.php?title=वरणम्&oldid=238515" इत्यस्माद् प्रतिप्राप्तम्