वरण्डकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरण्डकः, पुं, (वरण्ड + स्वार्थे संज्ञायां वा कन् ।) मातङ्गवेदिः । हातीर हाओदा इति भाषा । यौवनकण्टकः । वयस् फोडा इति भाषा । वर्त्तुलः । गोल इति ख्यातः । इति मेदिनी । के, २०३ ॥ भित्तिः । इति हेमचन्द्रः ॥ मेदिनी- कारेण अयं पवर्गीयबकारादौ लिखितः । किन्तु हेमचन्द्रेन वृञ्धातुनिष्पन्नत्वात् अन्तःस्थ- वकारादौ परिगणितः ॥
वरण्डकः, त्रि, (वरण्ड + कन् ।) विशालः । भय- सम्पन्नः । कृपणः । इति शब्दरत्नाशली ॥
