वरदाचतुर्थी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरदाचतुर्थी, स्त्री, (वरदाख्या चतुर्थी ।) माघ- शुक्लचतुर्थी । तस्यां गौरी पूज्या । यथा । भवि- ष्योत्तरे माघशुक्लपक्षमधिकृत्य । “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता । सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥” इति तिथ्यादितत्त्वम् ॥
