वररुचिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वररुचिः, पुं, (वरा रुचिरस्य ।) कविविशेषः । तत्पर्य्यायः । पुनर्व्वसुः २ । इति त्रिकाण्डशेषः ॥ स च विक्रमादित्यराजसभास्थनवरत्नान्तर्गत- रत्नविशेषः यथा, -- “धन्वन्तरिः क्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै ववरुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥
