सामग्री पर जाएँ

वराकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वराकः, पुं, (वृणीते तच्छील इति । वृ + “जल्प- भिक्षकुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति षाकन् ।) शिवः । इति मेदिनी । के, १२९ ॥ युद्धम् । इति हेमचन्द्रः ॥

वराकः, त्रि, (वृ + “जल्पभिक्षेति ।” ३ । २ । १५५ । इति षाकन् ।) शोचनीयः । इति मेदिनी । के, १२९ ॥ अवरः । इति शब्द- माला ॥ (यथा, मुकुन्दमालायाम् । १७ । “नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं मेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वराकः&oldid=163993" इत्यस्माद् प्रतिप्राप्तम्