सामग्री पर जाएँ

वराटकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वराटकः, पुं स्त्री, (वराट् + स्वार्थे कन् ।) कप- र्द्दकः । इत्यमरः ॥ कडि इति भाषा । तस्य संख्याभेदेन सं ज्ञामेदा यथा, -- “वराटकानां दशकद्वयं यत् सा काकिनी ताश्च पणश्चतस्रः । ते षोडश द्रम्य इवावगम्यो द्रन्यैस्तथा षोडशभिश्च निष्कः ॥” इति लीलावती ॥ * ॥ अपि च । ताम्रिकः कार्षिकः पणः । इति याज्ञवल्क्यवचनेन गुञ्जाः पञ्चाद्यमाषकस्ते षोडशाक्षः कर्षोऽस्त्री । इत्यमरसिंहोक्तेन च अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्के- तितः स च तावत्संख्यकवराटकैर्लभ्यते इति वराटकेष्वपि तथा व्यवहारः । एतन्मूलकं भविष्यमत्स्यतन्त्रयोर्व्वचनं यथा, -- “अशीतिभिर्व्वराटकैः पण इत्यभिधीयते । तैः षोडशैः पुराणं स्याद्रजतं सप्तभिस्तु तैः ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ ते च दक्षिणार्थं विधीयन्ते । यथा, -- “हतमश्रोत्रियं दानं हतो यज्ञस्त्वदक्षिणः । तस्मात् पणं काकिणीं वा फलं पुष्पमथापि वा । प्रदद्यात् दक्षिणां यज्ञे तया स सफलो भवेत् ॥” इति शुद्धितत्त्वम् ॥

वराटकः, पुं, (वराट एव । स्वार्थे कन् ।) रज्जुः । पद्मबीजम् । इति मेदिनी । के, २०२ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वराटकः [varāṭakḥ], 1 A cowrie; a kind of measure 1/8 of a Paṇa; प्राप्तः काणवराटको$पि न मया तृष्णे$धुना मुञ्च माम् Bh.3.4.

The seed-vessed of the lotus-flower; औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य N.7.18;11.11.

A string, rope (n. also in this sense). -Comp. -रजस् m. the tree called नागकेशर.

"https://sa.wiktionary.org/w/index.php?title=वराटकः&oldid=239057" इत्यस्माद् प्रतिप्राप्तम्