वरुडः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरुडः, पुं, अन्त्यजजातिविशेषः । यथा, -- “रजकश्चर्म्मकारञ्च नटो वरुड एव च । कैवर्त्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥” एषां स्त्रीगमनादौ दोषो यथा, -- “एतेषान्तु स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥” इति प्रायश्चित्ततत्त्वधृतयमवचनम् ॥ अस्योत्पत्तिर्यथा, -- “कैवर्त्तस्य च कन्यायां शौण्डिकादेव सौचिकः । सौचिकात् शौण्डिकाज्जातो नटो वरुड एव च ॥” इति पराशरपद्धतिः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरुडः [varuḍḥ], N. of a low caste; one of the 7 low castes, whose occupation is splitting canes (Mar. बुरुड); cf. Ms.4.215 Kull. (वेणः वेणोर्भेदनेन यो जीवति, बुरुड इति विश्वरूपः).
