वरूथः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वरूथः, पुं, (व्रियते रथोऽनेनेति । वृञ् वरणे + “जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति ऊथन् ।) परप्रहरणाभिघातरक्षार्थं रथस्य सन्नाहवद्यदावरणकादि द्रव्यं तत् । तत्पर्य्यायः । रथगुप्तिः २ । इत्यमरभरतौ । २ । ८ । ५७ ॥ रथसंवृतिः ३ । इति जटाधरः ॥ (यथा, रामायणे । ६ । ५७ । २६ । “उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ॥” ग्रामविशेषः । यथा, तत्रैव । २ । ७१ । ११ । “तोरणं दक्षिणार्द्धेन जम्बूप्रस्थं समागमत् । वरूथञ्च ययौ सम्यक् ग्रामं दशरथात्मजः ॥”)
