सामग्री पर जाएँ

वरेण्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वरेण्यः, त्रि, (वृ + एण्यः ।) प्रधानः । इत्य- मरः । ३ । १ । ५७ ॥ (यथा, भट्टिः । १ । ४ । “पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ॥” वरणीयः । इति मल्लिनाथः ॥ यथा, कुमारे । ७ । ९० । “संस्कारपूतेन वरं वरेण्यं बधूं सुखग्राह्यनिबन्धनेन ॥” पु, पितृगणानामन्यतमः । यथा, मार्कण्डेये । ९६ । ४५ । “वरो वरेण्यो वरदो पुष्टिदस्तुष्टिदस्तथा ॥” भृगुपुत्त्रविशेषः । यथा, महाभारते । १३ । ८५ । १२९ । “भृगोस्तु पुत्त्राः सप्तासन् सर्व्वे तुल्या भृगो- र्गुणैः । च्यवनो वज्रशीर्षश्च शुचिरौर्व्वस्तथैव च । शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ॥” महादेवः । यथा, तत्रेव शिवसहस्रनाम- कीर्त्तने । १३ । १७ । १३६ । “वरो वराहो वरदो वरेण्यः सुमहास्वनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वरेण्यः&oldid=164085" इत्यस्माद् प्रतिप्राप्तम्