सामग्री पर जाएँ

वर्णधर्म्मः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्णधर्म्मः, पुं, क्ली, (वर्णानां ब्राह्मणादीनां धर्म्मः ।) ब्राह्मणक्षत्त्रियवैश्यशूद्राणां कर्त्तव्यं कर्म्म । तद्- यथा, -- “यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः । अध्यापनं चाध्ययनं षट्कर्म्माणि द्विजोत्तमाः ॥ दानमध्ययनं यज्ञो धर्म्मं क्षत्त्रियवैश्ययोः । दण्डो युद्धं क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥ शुश्रूषैव द्विजातीनां शूद्राणां वर्णसाधनम् । कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥ क्षमा दमो दया दानमलोभस्त्याग एव च । आर्ज्जवं चानसूया च तीर्थानुसरणं तथा ॥ सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥ अहिंसा प्रियवादित्वमपैशुन्यमकल्कता । समासिकमिमं धर्म्मं चातुर्व्वर्णेऽब्रवीन्मुनिः ॥ प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया- वताम् । स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् । गान्धर्व्वं शूद्रजातीनां परिचारे तु वर्त्तताम् ॥” इति कौर्म्मे २ अध्यायः ॥ * ॥ अपि च । मार्कण्डेय उवाच । “हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः । शृण्वन्तु मुनयः सर्व्वे धर्म्मान् वक्ष्यामि शाश्व- तान् ॥ वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः । यज्ज्ञात्वा मुनयो नित्यं मुच्यते जन्मबन्धनात् ॥ ब्राह्मण्यां ब्राह्मणेनैव उत्पन्नो ब्राह्मणः स्मृतः । तस्य धर्म्मं प्रवक्ष्यामि तं योग्यं देशमेव च ॥ कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते । तस्मिन् देशे वसन् धर्म्मं कुरुते ब्राह्मणोत्तमः ॥ अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं पतिग्रहश्चैव कर्म्मषट्कमिहोच्यते ॥ अध्यापनञ्च त्रिविधं धर्म्मार्थं चात्मकारणम् । शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितम् ॥ नैषामन्यतमो वापि दृश्यते यत्र मानवे । तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥ योग्यानध्यापयेच्छिष्यान् यज्ञानपि च योजयेत् । चतुर्थमाददानोऽपि क्षत्त्रियो भागमापदि । प्रजा रक्षन् परं शक्त्या किल्विषात् प्रतिमुच्यते ॥ स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः । शस्त्रेण वैश्यान्रक्षित्वा धर्म्म्यमाहारयेद्बलिम् ॥ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणा- वरम् । कर्म्मोपकरणाः शूद्राः कारबः शिल्पिनस्तथा ॥ शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्त्रमाराधयेद्यदि । धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविशेत् ॥ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ विप्रसेवैव शूद्रस्य विशिष्टं कर्म्म कीर्त्त्यते । यदतोऽन्यद्बिकुरुते तद्भवत्यस्य निष्फलम् ॥ प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः । शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भृत्यानाञ्च परिग्रहम् ॥ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति । नास्याधिकारो धर्म्मेऽस्ति न धर्म्मात् प्रतिसेध- नम् ॥ धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः । मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ यथा तथाहि सद्वृत्तमातिष्ठत्यनसूयकः । तथा तथेमञ्चामुञ्च लोकं प्राप्नोत्यनिन्दितः ॥ शक्तेनापि हि शूद्रेण न काय्यों धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव वाधते ॥ एते चतुर्णां वर्णानामापद्धर्म्माः प्रकीर्त्तिताः । यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ एष धर्म्मविधिः कृत्स्नश्चातुर्व्वर्णस्य कीर्त्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥” इति मानवे धर्म्मशास्त्रे भृगुप्रोक्तायां संहि- तायां दशमोऽध्यायः ॥ * ॥ अन्यत् वर्णशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=वर्णधर्म्मः&oldid=164143" इत्यस्माद् प्रतिप्राप्तम्