वर्णनीथम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्णनीथम्, त्रि, (वर्ण + कर्म्मणि अनीयर् ।) वर्ण्यम् । वर्णितव्यम् । (यथा, साहित्यदर्पणे ६ परिच्छेदे । “वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥”) वर्ण्याः पदार्था यथा, -- “अथ वर्ण्यानि कथ्यन्ते तानि यानि कवी- श्वरैः । महाकाव्यप्रभृतिषु प्रबन्धेषु बवन्धिरे ॥ राजा राजबधूपुरोहितकुमारामात्यसेवाधिपाः देशग्रामपुरीसरोऽब्धिसरिदुद्यानाद्र्यरण्या- श्रमाः । मन्त्रो दूतरणप्रयाणमृगयाश्वेभर्त्विनेन्दूदया वीहारो विरहः स्वयंवरसुरा पुष्पाम्बुखेला रतम् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसु- मम् ॥ (स्तवार्हः । वर्णधात्वर्थदर्शनात् । यथा, भागवते । ३ । २२ । ३७ । “एतत्ते आदिराजस्य मनोश्चरितमद्भुतम् । वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥”)
