सामग्री पर जाएँ

वर्णितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्णितः, त्रि, (वर्ण + क्त ।) स्तुतियुक्तः । तत्- पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४ पनायितः ५ प्रणुतः ६ पणितः ६ पनितः ८ गीर्णः ९ अभिष्टुतः १० ईडितः ११ स्तुतः १२ । इत्यमरः । ३ । २ । ११० ॥ नुतः १३ । इति जटाधरः ॥ (विस्तारितः । यथा, महाभारते । १ । २ । २०९ । “चतुर्थमेतद्बिपुलं वैराटं पर्व्व वर्णितम् ॥” कथितः । यथा, कथासरित्सागरे । १९ । ३६ । “स्वभर्त्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वर्णितः&oldid=164180" इत्यस्माद् प्रतिप्राप्तम्