सामग्री पर जाएँ

वर्णी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्णी, [न्] पुं, (वर्णा अक्षराणि लेख्यत्वेन सन्त्य- स्येति । वर्ण + इनिः ।) लेखकः । (वर्णा नील पीतादयः लेख्यत्वेन सन्त्यस्येति । इनिः ।) चित्र- करः । (यथा, महाभारते । १२ । ६९ । ५७ । “अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् । यवसेन्घनदिग्धानां कारयेत च सञ्चयान् ॥” * ॥ वर्ण + “वर्णाद्ब्रह्मचारिणि ।” ५ । २ । १३४ ॥” इति इनिः ।) ब्रह्मचारी । यथा, -- “वर्णी स्यात् लेखके चित्रकरेऽपि ब्रह्म- चारिणि ॥” इति मेदिनी । ने, १२७ ॥ (यथा, कुमारे । ५ । ५२ । “सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत् कुतूहलम् ॥”) वर्णविशिष्टे, त्रि ॥ (वर्णोत्तरपदात् तु “धर्म्मशील- वर्णान्ताच्च ।” ५ । २ । १३२ । इति इनिः स्यात् । यथा, कामन्दकीये नीतिसारे । २ । १९ । “याजनाध्यापने शुद्धे विशुद्धाच्च प्रतिग्रहः । वृत्तित्रयमिदं प्राहुर्मुनयो ज्येष्ठवर्णिनः ॥” ज्येष्ठवर्णिनो ब्राह्मणस्येत्यर्थः ॥)

"https://sa.wiktionary.org/w/index.php?title=वर्णी&oldid=164183" इत्यस्माद् प्रतिप्राप्तम्