वर्त्तनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्तनः, पुं, (वर्त्तते इति । वृत् + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति युच् ।) वामनः । इति मेदिनी । ने, १२५ ॥ वर्त्तिष्णौ, त्रि । इत्यमरः । ३ । १ । २९ ॥ (यथा, भाग- वते । ३ । ११ । २६ । “एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्त्तनः । तिर्य्यङ्नृपितृदेवानां सम्भवो यत्र कर्म्मभिः ॥”)
