वर्त्तनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्तनम्, क्ली, (वर्त्ततेऽनेनेति । वृत् + करणे ल्युट् ।) वृत्तिः । इत्यमरः । २ । ९ । १ ॥ (यथा, भाग- वते । ७ । ११ । २६ । “सम्मार्ज्जनोपलेपाभ्यां गृहमण्डनवर्त्तनैः । स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥”) साधारणवर्त्तुलम् । इति शब्दरत्नावली ॥
वर्त्तनम्, क्ली, स्त्री, (वर्त्ततेऽनेनेति । वृत् + ल्युट् ।) तूलनाला । तर्कुपीठः । जीवनम् । इति मेदिनी । ने, १२६ ॥ (यथा, मार्कण्डेये । ५० । ७१ । “देवतापितृमर्त्त्यानामतिथीनाञ्च वर्त्तनम् । यस्यावशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज ॥”)
