सामग्री पर जाएँ

वर्त्तमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्त्तमानः, पुं, (वर्त्तते इति । वृत् + शानच् । मुक् ।) प्रयोगाधिकरणीभूतकालः । इति नैयायिकाः ॥ तत्कालवृत्ते, त्रि । तयोः पर्य्यायौ । अद्यतनः २ अधुनातनः ३ । इति राजनिर्घण्टः ॥ वैया- करणमते तु । आरब्घापरिसमाप्तिर्व्वर्त्तमानः कालः । यथा । महाभारतं पठति । स तु चतुर्विधः । यथा, -- “प्रवृत्तोपरतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्यो वर्त्तमानश्चतुर्विधः ॥” क्रमेणोदाहरणानि । मांसं न खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयति इत्यर्थः । इह कुमाराः क्रीडन्ति तदानीन्तनक्रीडनाभावेऽपि पूर्ब्बक्रीडानां बुद्धौ वर्त्तमानत्वात् । पर्व्वता- स्तिष्ठन्ति नित्यप्रवृत्तत्वात् । किञ्च पर्व्वतानां स्थितत्वे वर्त्तमानत्वेऽपि मूतभविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्व्वतास्तस्थुः स्थास्यन्ति इत्यपि स्यात् । सामीप्यो द्विविधः । भूतसामीप्यो भविष्यत्- सामीप्यश्च । भूतसामीप्ये यथा । कदा आगतो- ऽसि इति प्रश्ने अध्वस्वेदादेर्व्वर्त्तमानत्वात् एषो- ऽहमागच्छामि इति आगतोऽपि वदति । भवि- ष्यत् सामीप्ये यथा । कदा गमिष्यसि इति प्रश्ने एषोऽहं गच्छामि इति गमनक्रियमाणोद्यमो- ऽपि वदति । इति मुग्धबोधटीकायां दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्त्तमान¦ पु॰ वृत--शानच्। कालभेदे शब्दप्रयोगाधारे आ-रब्धापरिसमाप्ते

१ काले

२ तत्कालवृत्तौ त्रि॰। ( वर्त्तमानकालश्च चतुर्विधः। यथा
“प्रवृत्तोतरत

१ -श्चैव वृत्ताविरत

२ एव च। नित्यः प्रवृत्तः

३ सामीप्यो

४ वर्त्तमानश्चतुर्विधः। क्रमेणोदाहरणाति। मांसं नखादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयतीत्यर्थः। इह कुमाराः क्रीडन्ति

२ तदानीन्तमक्रीडनाभावेऽपिपूर्वक्रीडानां बुद्धौ वर्त्तमानत्वात्। पूर्वतास्तिष्ठन्ति

३ नित्यप्रदृत्तत्वात्। किञ्च पर्वतानां स्थितत्वेन वर्त्तमानत्वेऽपिभूतभवविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्वतास्तस्थुःस्थास्यन्ति इत्यपि स्वात्। सामीप्यो

४ द्विविधः। भूतसामीप्यो भविष्यत्सामीप्यश्च यथा कदा आगतोऽसिइतिप्रश्ने अध्वस्वेदादेर्वर्त्तमानत्वात् एषोऽहमागच्छामिइति आगतोऽपि वदति। भविस्यत्सामीप्यो यथा। कदा गमिष्यास इति प्रश्ने एषोऽहं गच्छामि इतिगमने क्रियमाणोद्यमोऽपि वदति” दुर्गादासः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्त्तमान¦ mfn. (-नः-ना-नं)
1. Being, existing, living, being present.
2. Dwelling or abiding in.
3. Revolving. n. (-नं) (In grammar,) The present tense. E. वृत् to be, शानच् aff.

"https://sa.wiktionary.org/w/index.php?title=वर्त्तमान&oldid=240874" इत्यस्माद् प्रतिप्राप्तम्