वर्त्तिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्तिका, स्त्री, वर्त्तकपक्षी । इत्यमरः ॥ वर्त्मनि वर्त्तत इत्यच् वर्त्तः । स्वार्थे कः वर्त्तकः । भारै इति ख्यातः । वृतिलतिभ्वां तिकः वर्त्तिका स्त्रीलिङ्गा । वाट्भार इति ख्याता । नाम- द्वयमिदमित्यमरदीपिका । वर्त्तिकेति स्त्रिया- मीत्वप्रतिषेधार्थं द्वयोरुपादानमिति माधवी । रूपभेदप्रदर्शनार्थमिति रायमुकुटः । इति तट्टीका सारसुन्दरी ॥ सा च वटेर पक्षी इति नाम्ना ख्याता । अस्या मांसगुणाः । “वर्त्तिका मधुरा रूक्षा कफमारुतनाशिनी ॥” इति राजवल्लभः ॥ अजशृङ्गी । इति राजनिर्घण्टः ॥ (वर्त्ति + स्वार्थे कन् । टाप् ।) वर्त्तिः । वाति इति शलिता इति पलिता इति च भाषा । इत्युणादि- कोषः ॥ * ॥ सा पञ्चविधा । यथा, -- “पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा । शालजा वादरी वापि फलकोषोद्भवाथवा । वर्त्तिका दीपकृत्येषु सदा पञ्चविधा स्मृता ॥” इति कालिकापुराणे ६८ अध्यायः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्तिका¦ f. (-का)
1. A quail.
2. The wick of a lamp.
3. A paint.
4. A paint-brush. E. वृत् to be, aff. ण्वुल्, fem. aff. टाप्; or वृत् the same, तिकन् Una4di aff.; also वर्त्तक, वर्त्तका |
