वर्त्तिष्णुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्तिष्णुः, त्रि, (वर्त्तते इति । वृत + “अलङ्कृञ् निराकृञ्प्रजनोत्पचोत्पतन्मदरुच्यपत्रपवृतुवृधु- सहचर इष्णुच् ।” ३ । २ । १३६ । इति इष्णुच् ।) वर्त्तनशीलः । तत्पर्य्यायः । वर्त्तनः । इत्यमरः । ३ । १ । २९ ॥ वर्त्ती । इति हेम- चन्द्रः । ३ । ५३ ॥ (यथा, भट्टौ । ५ । १ । “निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् । उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥”)
