सामग्री पर जाएँ

वर्त्तुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्त्तुतम्, त्रि, (वर्त्तते इति । वृत् + बाहुलकात् उलच् ।) गोलवस्तु । तत्पर्य्यायः । निस्त- लम् २ वृत्तम् ३ । इत्यमरः । ३ । १ । ६९ ॥ मण्डलायितम् ४ । इति शब्दरत्नावली ॥ * ॥ (यथा, भागवते । ५ । १६ । ५ । “यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तर- नियुतयोजनविशालः समवर्त्तुलो यथा पुष्कर- पत्रम् ॥”) सम्पूर्णगर्भवृत्तानि यथा, -- “सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः । चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥ आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् । आलबालमहीजालचर्म्मकं शाणकादयः ॥” * ॥ वृत्तानि यथा, -- “वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः । रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥ कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” इति कविकल्पलतायाम् २ श्लेषस्तवके ३ कुसु- मम् ॥

"https://sa.wiktionary.org/w/index.php?title=वर्त्तुत&oldid=164214" इत्यस्माद् प्रतिप्राप्तम्