वर्त्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्म, [न्] क्ली, (वर्त्ततेऽनेनास्मिन् वेति । वृत् + मनिन् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥ (यथा, ऋग्वेदे । १ । ८५ । ३ । “गोमातरो यच्छुभयन्ते अञ्जिभि- स्तनूषु शुभ्रा दधिरे विरुक्मतः । वाधन्ते विश्वमभिमातिनमप- वर्त्मान्येषामनुरीयते घृतम् ॥” “वर्त्मानि मार्गाननुसृत्य ।” इति तद्भाष्ये सायणः ॥ यथा च रघौ । २ । २० । “पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्मपत्न्या । तदन्तरे सा विरराज धेनु- र्दिनक्षपामध्यगतेव सन्ध्या ॥”) नेत्रच्छदः । इति मेदिनी । ने, १२८ ॥ (यथा, अश्ववैद्यके । २ । १० । “सितासितञ्च तन्मध्ये नेत्रयोर्म्मण्डलं हि तत् । प्रच्छादनं भवेद् वर्त्म चाक्षिकूटमतः परम् ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्त्म in comp. for वर्त्मन्.
