सामग्री पर जाएँ

वर्द्धकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्द्धकी, [न्] पुं, (वर्द्धको वर्द्धोऽस्ति अस्येति । वर्द्धक + इनि ।) वर्णसङ्करजातिविशेषः । वढै इति हिन्दी भाषा । तत्पर्य्यायः । त्वष्टा २ वर्द्धकिः ३ तक्षा ४ सूत्रधारः ५ रथकारः ६ रथकरः ७ काष्ठतट् ८ काष्ठतक्षकः ९ । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ४३ । २२ । “अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षभङ्गे तथाणिभङ्गे च वर्द्धकिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वर्द्धकी&oldid=164232" इत्यस्माद् प्रतिप्राप्तम्