वर्द्धन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्द्धनम्, क्ली, (वृध् च्छेदपूर्त्त्योः + ल्युट् ।) छेदनम् । (यथा, मनुः । २ । २९ । “प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”) वृद्धिः । इति मेदिनी । ने, १२३ ॥
वर्द्धनः, त्रि, (वर्द्धयतीति । वृध् + नन्द्यादित्वात् ल्युः । यद्वा, वर्द्धते तच्छील इति । वृध् पूर्त्तौ + “अनुदात्तेतश्चेति ।” ३ । २ । १४९ । इति युच् ।) वर्द्धिष्णुः । इत्यमरः । ३ । १ । २८ ॥ (यथा, ऋग्वेदे । ३ । ३२ । १२ । “यज्ञो हि त इन्द्र वर्द्धनो भूदुत प्रियः सुतसोमो मियेधः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्द्धन¦ न॰ वृध--वर्द्ध--भावे ल्युट्।
१ छेदने
२ पूरणे च मेदि॰। वृध णिच्--ल्यु।
२ वृद्धिकारके त्रि॰।
“करोमि क्षितिवर्द्ध-नम्” भट्टिः। वृध--ल्यु।
४ वृद्धियुक्ते त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्द्धन¦ mfn. (-नः-नी-नं) Growing, thriving. n. (-नं)
1. Increasing, growing, thriving.
2. Augmenting, causing to increase.
3. Cutting, divi- ding.
4. Animation.
5. Educating, rearing.
6. Elevation. f. (-नी)
1. A small water-jar.
2. A brush, a broom. m. (-नः)
1. A granter of prosperity.
2. A tooth growing over another.
3. An epithet of S4IVA. E. वृध् to increase, or वर्ध् to cut, aff. ल्युट् |