वर्य्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्य्यम्, त्रि, (वर्य्यते प्रार्थ्यते इति । वरत् क ईप्सायाम् + “अचो यत् ।” ३ । १ । ९७ । इति यत् ।) प्रधानम् । इत्यमरः । ३ । १ । ५७ । (यथा, भागवते । १ । ५ । ९ । “यथा धर्म्मादयश्चार्था मुनिवर्य्यावुकीर्त्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥”) श्रेष्ठम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, किराते । ७ । २० । “माहेन्द्रं नगमभितः करेणुवर्य्याः पर्य्यन्तस्थितजलदा दिवः पतन्तः ॥”)
