वर्व्वरा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्व्वरा, स्त्री, (वर्व्वरपुष्पस्येव आकृतिरस्त्यस्या इति । वर्व्वर + अच् । टाप् ।) पुष्पभेदः । शाकभेदः । इति मेदिनी । रे, २०९ ॥ (वर्व्व इति शब्दं रातीति । रा + कः ।) मक्षिकाभेदः । इति शब्दरत्नावली ॥
वर्व्वरा, स्त्री, (वर्व्वर + टाप् । पक्षे षित्वात् ङीष् ।) क्षुद्रवृक्षविशेषः । वायुइ इति भाषा । तत्पर्य्यायः । कवरी २ तुङ्गी ३ खरपुष्पा ४ अजगन्धिका ५ अजगन्धा ६ कवरा ७ खरपुष्पिका ८ । इत्यमरशब्दरत्ना- वल्यौ ॥ तस्याः प्रकारा गुणाश्च ।
