सामग्री पर जाएँ

वर्षवृद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्षवृद्धिः, स्त्री, (वर्षस्य वृद्धिराधिक्यं यत्र ।) जन्मतिथिः । इति स्मार्त्तव्याख्यादर्शनात् ॥ अथ जन्मतिथिकृत्यम् । तन्मलमासे न कर्त्तव्यं चान्द्र- मासीयत्वेन सावकाशत्वात् । न च तस्य सौर- मासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिद- प्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः । न चेष्टापत्तिः प्रतिसंवत्सरन्तद्विधानात् । यथा ब्रह्मपुराणं गर्गश्च । “सर्व्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः ॥ स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रति संवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥” स्नातैस्तिलस्नातैः । प्रजापतिर्ब्रह्मा । तथा च तत्तिथिमधिकृत्य । “तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥ मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतु- तया गोरोचनादिकमपि मङ्गलं तेन धृत- गुग्गुल्वादिपाणिभिरित्यर्थः । तथा च कृत्य- चिन्तामणौ । “गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम् । गुग्गुलुं निम्बसिद्धार्थं दूर्व्वागोरोचनायुतम् । संपूज्य भानुविघ्नेशौ महषि प्रार्थयेदिदम् ॥ चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ! । रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥ मार्कण्डेय महाभाग सप्तकल्पान्तजीवन । आयुरिल्यर्गसिद्ध्यर्थमस्माकं वरदो भव ॥” स्वनक्षत्रञ्चेति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्म- कालीननक्षत्रम् । नामकरणे तथा दर्शनात् वक्ष्य-

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्षवृद्धि¦ पु॰ वर्षस्य वृद्धिरधिकता यस्मिन्।

१ जन्मतिथौ

२ तद्दिनकर्त्तव्ये पूजादौ च।
“युगाद्या वर्षवृद्धिश्चसप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” ति॰ त॰।
“तत्कृत्यं च मलमासे न कर्त्तव्यंचान्दमासीयत्वेन सावकाशत्वात् न च सौरमासीयंतथात्वे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेःनं चेष्टापत्तिः
“प्रतिसंवत्सरं चैव कर्त्तव्यश्च महोत्-सवः” ब्रह्मपु॰ प्रतिसंवत्सरं तद्विधानात् ति॰ त॰ रघु॰। अधिकं जन्मतिथिशब्दे दृश्याम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्षवृद्धि¦ f. (-द्धिः) Birth-day.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्षवृद्धि/ वर्ष--वृद्धि f. " year-increase " , birthday , t.

वर्षवृद्धि/ वर्ष--वृद्धि f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=वर्षवृद्धि&oldid=241675" इत्यस्माद् प्रतिप्राप्तम्