वर्षा

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षाः, स्त्री भुम्नि, (वर्षो वर्षणमस्त्यासु इति । वर्ष + अर्शआदित्वात् अच् । टाप् । यद्वा, व्रियन्ते इति । वृ + “वृतॄवदीति ।” उणा० ३ । ६२ । इति सः । ततष्टाप् ।) स्वनामख्यात ऋतुः । तत्पर्य्यायः । प्रावृट् २ । इत्यमरः । १ । ४ । १९ ॥ घनकालः ३ जलार्णवः ४ प्रवृट् ५ मेघागमः ६ घनाकरः ७ । इति शब्दरत्नावली ॥ प्रावृषा ८ । इति त्रिकाण्डशेषः ॥ स च ऋतुः सौरश्रावण- भाद्रमासद्बयात्मकः । आषाढादिमासचतुष्टया- त्मकश्च । आद्यस्य प्रमाणम् । यथा । तपस्त- पस्यौ शैशिरावृतुः । मधुश्च माधवश्च वासन्ति- कावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथैत- दुदगयनं देवानां दिनम् । नभाश्च नभस्यश्च वार्षिकावृतुः । इषश्च ऊर्ज्जश्च शारदावृतुः । सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैतद्- दक्षिणायनं देवानां रात्रिः । इति मलमास- तत्त्वधृता श्रुतिः ॥ शेषस्य प्रमाणं तत्र चातु- र्मास्यव्रतनियमश्च यथा । वाराहे । “आषाढशुक्लद्बादश्यां पौर्णमास्यामथापि वा । चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे ॥ अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती । कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥ चतुर्धापि हि तच्चीर्णं चातुर्मास्यं व्रतं नरः । कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥” मात्स्ये । “चतुरो वार्षिकान् मासान् देवस्योत्थापना- वधि । मधुस्वरां भवेन्नित्यं नरो गुडविवर्ज्जनात् ॥ तैलस्य वर्ज्ज नादेव सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥ लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् । सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥ निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते । एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥ धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने । ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ॥ घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् । फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ॥ नमो नारायणायेति जप्त्वानशनजं फलम् । पादाभिवन्दनाद्बिष्णोर्लभेद्गोदानजं फलम् ॥ एवमादिव्रतैः पार्थ तुष्टिमायाति केशवः ॥” सनत्कुमारः । “इदं व्रतं मया देव ! गृहीतं पुरतस्तव । निर्व्विघ्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ! ॥ गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं म्रिये । तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥” समाप्तौ च । “इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो । नूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन ॥” * ॥ अत्रैव यतिमधिकृत्य काठकगृह्यम् । “एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ॥” एतदशक्तविषयम् । ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी इति शङ्खोक्तेः । इति तिथ्यादि- तत्त्वम् ॥ वर्षर्त्तौ वर्णनीयानि यथा, -- “वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलो- द्भेदौ । जातीकदम्बकेतकझञ्झानिलनिम्नगाहलि- प्रीतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ (एतत्काललक्षणादिकं यथा, -- “सधनवारिदवारिसमाकुला निखिलभूः प्रबलोदकपूरिता । समदवातकरा विदिशो दिशो मुदितकीटकृमिप्रभवा मही ॥ नीलशस्यहरितोज्ज्वला मही कुल्यकासलिलसंप्लुता सरित् । इन्द्रगोपकविराजिता धरा पङ्कभूषणविभूषिता च सा ॥ पत्री कूजति कानने च सरसी म्लानाम्बुपूर्णा तथा हंसा मानसमाव्रजन्ति कमलान्यम्लानतां यान्ति च ॥ गर्ज्जन्मेघमहेन्द्रकन्दरदरीशस्यावृता श्यामला भात्येवं पवनस्य कोपनकरो वर्षाऋतुः शोभितः ॥” “किञ्चिद्घर्म्मो भवेदत्र शस्यानां दृढता भवेत् । बहुशस्या भवेद्धात्री वारिपूर्णा सरिन्मुहुः ॥ बहूदकधरा मेघा बहुवृष्टा घनस्वनाः । एवं गुणसमायुक्ता वर्षा ज्ञेया ऋतूत्तमाः ॥ तासु वातकफौ कुप्तौ जायेते हि नृणां भृशम् । इति ज्ञात्वा भिषक् श्रेष्ठः कुर्य्यादस्य प्रति- क्रियाम् ॥ स्वेदनं मर्द्दनं पथ्यं निर्व्वाते शयनन्तथा । गौररामारतं शस्तं व्यायामः क्रमविक्रमः ॥ कट्वम्लक्षारसुरसाः सेव्या वातकफापहाः । निरूहा वस्तिकर्म्माद्याः कफवातरुजापहाः ॥” इति हारीते प्रथमे स्थाने चतुर्थेऽध्याये ॥ “आदानग्लानवपुषामग्निः सन्नोऽपि सीदति । वर्षासु दोषैर्दू ष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे ॥ सतुषारेण मरुता सहसा शीतलेन च । भूवाष्पेणाम्लपाकेन मलिनेन च वारिणा ॥ वह्रिनैव च मन्देन तेष्वित्यन्योन्यदूषिषु । भजेत् साधारणं सर्व्वमुष्मणस्तेजनञ्च यत् ॥ आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान् । जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्त- नम् ॥ मस्तु सौवर्च्चलाढ्यं वा पञ्चकोलावचूर्णितम् । दिव्यं कौर्प शृतञ्चाम्भो भोजनन्त्वतिदुर्द्दिने ॥ व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु । अपादचारी सुरभिः सततं धूपिर्ताम्बरः ॥ हर्म्यपृष्ठे वसेद्वाष्पशीतशीकरवज्जित । नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत् ॥” इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षा स्त्री-बहु।

श्रावणभाद्राभ्यां_निष्पन्नः_ऋतुः

समानार्थक:प्रावृष्,वर्षा

1।4।19।2।2

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षा¦ स्त्री ब॰ व॰। वर्षन्ति मेघा अत्र। श्रावणभाद्रात्मकेमासद्वये ऋतौ
“नभश्च नभस्यश्च बार्षिकावृतू” यजु॰ श्रुतिः
“वर्षासु च मघासु च” मनुः।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षा [varṣā], (Usually f. pl.)

The rainy season, the rains, the monsoon; ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः Y.3. 52; Bk.7.1.

Rain (sing. in this sense). -Comp. -अवसायः the Śarad season. -आघोषः a large frog.-कालः the rains, the rainy season; so वर्षासमयः -कालीनa. belonging to or produced in the rainy season.-प्रभञ्जनः a high wind. -भवः a red flowering Punar-navā.-भू m.

a frog.

a kind of insect (इन्द्रगोप). -भूः, -भ्वी f.

a female frog or a little frog.

hogweed.

an earth-worm. -मदः a peacock.

रात्रः a night in the rainy season.

the rainy season.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षा f. See. p. 927 , col. 2.

वर्षा f. rain S3a1n3khGr2. VarBr2S.

वर्षा f. pl. (exceptionally sg.) the rains , rainy season , monsoon (lasting two months accord. to the Hindu division of the year into six seasons [see ऋतु] , the rains falling in some places during श्रावणand भाद्र, and in others during भाद्रand आश्विन, and in others for a longer period) TS. etc.

वर्षा f. Medicago Esculenta L. [ cf. Gk. ? , " rain-drops. "]

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of the Dhruva मण्डल. वा. ५१. ११.

"https://sa.wiktionary.org/w/index.php?title=वर्षा&oldid=454784" इत्यस्माद् पुनः प्राप्तिः