सामग्री पर जाएँ

वर्हिषदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वर्हिषदः, [द्] पुं, (वर्हिषि अग्नौ कुशासने वा सीदन्ति ये ते । वर्हिस् + सद् + क्विप् । पृषो- दरादित्वात् साधुः ।) पितृगणविशेषः । यथा, “अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः । अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः ॥” इति कौर्म्मे १२ अध्यायः ॥ अपि च । “अपसव्यं ततः कृत्वा सव्यं जानु च भूतले । अग्निस्वात्तांस्तथा सौम्यान् हविष्मन्तस्तथोष्म- पान् ॥ सुकालिनो वर्हिषद आज्यपांस्तर्पयेत्ततः । तर्पयेच्च पितॄन् भक्त्या सतिलोदकचन्दनैः ॥ दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः ॥” अत्र केचित् पितृधर्म्मातिदेशात् दिव्यपितॄणा- मपि अञ्जलित्रयदानम् । तदसत् । “कव्यबालं नलं सौम्यं यममर्य्यमणं तथा । अग्निस्वात्ताः सोमपाश्च वर्हिषदः सकृत् सकृत् ॥” इति च्छन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधा- नात् । इत्याह्रिकतत्त्वम् ॥ (पृथुवंशजस्य हवि- र्द्धानेः पुत्त्रः । यथा, भागवते । ४ । २४ । ८ -- ९ । “हविर्द्धानाद्धाविर्द्धानिर्विदूरासूत षट्सुतान् । वर्हिषदं पयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ वर्हिषत्सु महाभागो हविर्द्धानिः प्रजापतिः । क्रियाकान्तेषु निष्णातो योगेषु च कुरूद्वह ॥” वर्हिषि यज्ञे सीदतीति । यज्ञस्थे, त्रि । यथा, ऋग्वेदे । २ । ३ । ३ । “स आ वह मरुतां शर्धो अच्युत- मिन्द्रं नरो वर्हिषदं यजध्वम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वर्हिषदः&oldid=164368" इत्यस्माद् प्रतिप्राप्तम्