वलभी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलभी, स्त्री, (वलभि + कृदिकारादिति वा ङीष् ।) वडभी । इति शब्दरत्ना- वली अमरटीका च ॥ (यथा, कथासरित्- सागरे । ८७ । १२ । “हर्म्यप्रासादवलभीष्वन्विष्यन् सोऽभ्रमन्निशि ॥” पुरीविशेषः । यथा, भट्टिः । २३ । ३५ । “काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननरेन्द्रपालितायाम् । कीर्त्तिरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम् ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलभी स्त्री।
छादनार्थवक्रदारुः
समानार्थक:गोपानसी,वलभी
2।2।15।1।2
गोपानसी तु वलभी छादने वक्रदारुणि। कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
