वलयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलयः, पुं, क्ली, (वलते आवृणोति हस्तादिक- मिति । वल् + “वलिमलितनिभ्यः कयन् ।” उणा० ४ । ९९ । इति कयन् ।) स्वर्णादि- रचिलप्रकोष्ठाभरणम् । बाला इति भाषा । तत्पर्य्यायः । आवापकः २ परिहार्य्यः ३ कटकः ४ । इत्यमरः ॥ पारिहार्य्यः ५ शंखकः ६ । इति शब्दरत्नावली ॥ कम्बुः ७ कुण्डलम् ८ । इति जटाधरः ॥ (यथा, रामायणे । २ । ३२ । ५ । “सहेमसूत्रैर्म्मणिभिः केयूरैर्व्वलयैरपि ॥” मण्डलम् । यथा, मार्कण्डेये । २० । ४९ । “अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः । समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥” अस्थिविशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये ॥ “कपालरुचकतरुणवलयनलकसंज्ञानि ।” “पाणिपादपार्श्वपृष्ठोदरःसु वलयानि ॥” वैद्यकोक्ताग्निकर्म्मविशेषः । यथा, सुश्रुते । १ । १२ । “तत्र रोगाधिष्ठानभेदादग्निकर्म्म चतुर्धाभिद्यते । तद्यथा वलयविन्दुलेखाप्रतिसारणानीति दहन- विशेषाः ॥” * ॥ वेष्टनम् । यथा, रघुः । १ । ३० । “सवेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्व्वीं शशासैकपुरीमिव ॥”)
वलयः, पुं, (वलयवदाकृतिरस्त्यस्येति । अर्श आदित्वात् अच् ।) अष्टादशगलरोगान्तर्गत- गलरोगविशेषः । यथा, -- “वलास एवायतमुन्नतञ्च शोथं करोत्पन्नगतिं निवार्य्य । तं सर्व्वथैवाप्रतिवार्य्य वीर्य्यं विवर्ज्जनीयं वलयं वदन्ति ॥” * ॥ अथ गलरोगाणां चिकित्सा । “कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः । चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥ क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् । हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥ कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः । गोमूत्रकथिताः पीताः कण्ठरोगविनाशनाः ॥ मृद्वीका कटुका व्योषा दार्व्वी त्वक् त्रिफला घनम् । पाठा रसाञ्जनं दूर्व्वा तेजोह्वेति सुचूर्णितम् ॥ क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् । योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः ॥ जवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारु निशां सकृष्णाम् । क्षौद्रेण कुर्य्यात् गुटिकां मुखेन तां धारयेत् सर्व्वगलामयेषु ॥” इति भावप्रकाशः ॥ * ॥ वेला । कङ्कणम् । इति जटाधरः ॥ (दण्डव्यूह- विशेषः । यथा, कामन्दकीये नीतिसारे । १९ । ४५ । “सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलयः [valayḥ] यम् [yam], यम् [वल्-अयन् Uṇ.4.19]
A bracelet, armlet; विहितविशदबिसकिसलयवलया जीवति परमिह तव रति- कलया Gīt.6; Bk.3.22; Me.2,62; R.13.21,43.
A ring, coil; क्रोडाकृष्टव्रततिवलयासङ्गसंजातपाशः Ś.1.32;7.11.
The zone or girdle of a married woman.
A circle; circumference (oft. at the end of comp.); भ्रान्त- भूवलयः Dk.; वेलावप्रवलयाम् (उर्वीम्) R.1.3; दिग्वलय Śi. 9.8.
An enclosure, a bower; as in लतावलयमण्डप.
यः A fence, hedge.
A branch.
A sore throat.
A kind of circular military array.
यम् N. of certain round bones.
Multitude, swarm. (वलयीकृ 'to form into a bracelet;' करेण शंभोर्वलयीकृताहिना सहिष्यते तत् प्रथमावलम्बनम् Ku.5.66; वलयीभू 'to serve as a bracelet or girdle').
