वल्मीकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वल्मीकः, पुं, (वल्मीक उयीकाकृतमृत्तिकास्तूपः उत्पत्तिकारणत्वेनास्त्यस्येति । अच् ।) वाल्मीकि- मुनिः । रोगविशेषः । इति विश्वः ॥ अथ वल्मीकरोगस्य लक्षणम् । “ग्रीवां सकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः । ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतप्रवृद्धिः ॥ मुखैरनेकैस्त्वतितोदवद्भि- र्विसर्पवत् सर्पति चोन्नताग्रैः । वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ॥” ग्रीवा कृकाटिका । अंसः स्कन्धः । कक्षा बाहुमूलम् । गलः कण्ठः । वल्मीकवदित्यनेन प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते । निष्प्रत्यनीकं उपचारायोग्यम् ॥ * ॥ अथ तस्य चिकित्सा । “शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसा- धयेत् । विधानेनार्व्वुदोक्तेन शोधयित्वा च रोधयेत् ॥ बल्मीकन्तु भवेद्यस्य नातिवृद्धममर्म्मजम् । तत्र संशोधनं कृत्वा शोणितं मोक्षयेद् भिषक् ॥ कुलत्थिकानां मूलैश्च गुडूच्या लवणेन च । आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥ श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् । सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपवाहयेत् ॥ पक्वं तद्वा विजानीयाद्गतीः सर्व्वा यथाक्रमम् । अभिज्ञाय गतीश्छित्त्वा प्रदिह्यान्मतिमान् भिषक् ॥ संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् । व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ॥ मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः । जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥ वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् । पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ॥ वल्मीकं यत् सशोफं स्याद्बर्ज्यं तद्धि विजा- नता ॥” मनःशिलाद्यं तैलम् । इति भावप्रकाशः ॥ (अस्य मृदो व्यवहारेण रोगनाशित्वं यथा, -- “क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् । गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम् ॥” इति वैद्यकचक्राणिसंग्रहे ऊरुस्तम्भाधिकारे ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वल्मीकः [valmīkḥ] कम् [kam], कम् [वल्-ईक मुट् च Uṇ.4.25] An ant-hill, a hillock thrown up by white ants, moles &c.; धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः Subhāṣ; Me.15; Ś.7.11.
कः Swelling of certain parts of the body, elephantiasis.
The poet Vālmīki. -Comp. -भौमम्, -राशिः, -वपा an ant-hill. -शीर्षम् a kind of antimony (used as collyrium).
