वल्लभः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वल्लभः, पुं, (वल्ल संवरणे + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।) दयितः । अध्यक्षः । सल्लक्षणतुरङ्गमः । इति मेदिनी । भे, १८ ॥ (जह्रुवंशीयवलाकाश्वस्य पुत्त्रः । स च कुशि- कस्य पिता । यथा, महाभारते । १३ । ४ । ५ । “वल्लभस्तस्य तनयः साक्षाद्धर्म्म इवापरः । कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥”)
वल्लभः, त्रि, (वल्ल + अभच् ।) प्रियः । (यथा, कामन्दकीयनीतिसारे । ५ । १९ । “पुत्त्रेभ्यश्च नमस्कुर्य्यात् वल्लभेभ्यश्च भूपतेः ॥”) अध्यक्षः । इत्यमरः ॥ अध्यक्षोऽत्र गवाध्यक्षः । इति स्वामी ॥
