सामग्री पर जाएँ

वल्लवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वल्लवः, पुं, (वल्ल प्रीतौ + क्विप् । वल्लं प्रीतिं वातीति । वा + कः ।) गोपः । इत्यमरः ॥ (यथा, माघे । ११ । ८ । “द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरानारवान् वारिणीव । शशिनमिव सुरौघाः सारमुद्धर्त्तुमेते कलसिमुदधिगुर्व्वी वल्लवा लोडयन्ति ॥”) भीमसेनः । इति मेदिनी । वे, ४४ ॥ (विराटनगरे छद्मवासकाले एवास्य एतन्नाम आसीत् । यथामहाभारते । ४ । २ । १ । “पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः । उपस्थास्यामि राजानं विराटमिति मे मतिः ॥”)

वल्लवः, त्रि, (वल्लमानन्दं वावीति । वा + कः ।) सूपकारः । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वल्लवः [vallavḥ], (-वी f.) See बल्लव. A cowherd; विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे Mb.3.239.6. (v. l.); पश्यन्- कृतार्थैरपि वल्लवीजनः Śi.12.39 (v. l.).

"https://sa.wiktionary.org/w/index.php?title=वल्लवः&oldid=242710" इत्यस्माद् प्रतिप्राप्तम्