सामग्री पर जाएँ

वल्लवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वल्लवी, स्त्री, (वल्लव + ङीष् ।) वल्लवजातिस्त्री । वल्लवपत्नी । तत्पर्य्यायः । आभीरी २ गोपिका ३ गोपी ४ महाशूद्री ५ गोपालिका ६ । इति शब्दरत्नावली ॥ (यथा, किराते । ४ । १७ । “स मन्थरावल्गित-पीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम वल्लवी- रभिप्रनृत्ता इव वारयोषितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वल्लवी&oldid=164439" इत्यस्माद् प्रतिप्राप्तम्