वशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशः, त्रि, (वष्टीति । वश + अच् ।) आयत्तः । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । ८ । १७ । “गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशो- ऽभवत् ॥”)
वशः, पुं, (वश + भावे अप् ।) इच्छा । इति संकीर्णवर्गे अमरः ॥ (उश्यते इष्यते इति । वश + कर्म्मणि अप् ।) वेश्यागृहम् । आय- त्तता । प्रभुत्वम् । इति त्रिकाण्डशेषः ॥ जन्म । इति हेमचन्द्रः ।
