वशीकरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशीकरणम्, क्ली, (वश + कृ + भावे ल्युट् । अभूत- तद्भावे च्विः ।) मणिमन्त्रौषधैरायत्तीकरणम् । इति भरतजटाधरौ ॥ अस्य पर्य्यायः वशक्रिया- शब्दे द्रष्टव्यः ॥ * ॥ तत्साधनौषधानि यथा, -- “ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुनागकेशरम् । दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ॥” ओ~ नारायणाय स्वाहेति । “ताम्बूलं दीयते यस्य स वशी स्यान्न संशयः ।” ओ~ हरि हरि स्वाहा ॥ १ ॥ “गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया । चूर्णं कृत्वा यस्य शिरे दीयते स वशी भवेत् ॥ २ ॥ खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् । ऋतुकाले योनिलेपात् पुरुषो दासतामियात् ॥ ३ ॥ अगुरुं गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् । गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ ४ ॥ श्वेतापराजितामूलं पिष्टं रोचनया युतम् । यं पश्येत्तिलकेनैव वशीकुर्य्यान् नृपालये ॥ ५ ॥ काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् । आत्मरक्तं सभावेयं वशी भवति मानवः ॥ ६ ॥ ओ~ नमः सर्व्वसत्त्वेभ्यो नमः । सिद्धिं कुरु कुरु स्वाहा । सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥ ७ ॥ ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् । अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति ॥ ८ ॥ मूलं जयन्त्या वक्त्वस्थं व्यवहारे जयप्रदम् ॥ ९ ॥ भृङ्गरालस्य भूलन्तु पिष्टं शुक्रेण संयुतम् । अक्षिणी चाञ्जयित्वा तु वशीकुर्य्यान्नरं किल ॥ १० अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् । ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम् ॥ ११ ॥ चतुःषष्टिकलाः प्रीक्ताः कामशास्त्रे वशीकराः । आलिङ्गनाद्या नृस्त्रीणां कुमार्य्यादेर्व्वशीकराः ॥ १२ ॥ रोचनां नागपुष्पाणि विल्वपुष्पं प्रियङ्गवः । कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्बशे ॥ १३ ॥ दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी । तिलतैलेन संयुक्तं योनिलेपात् वशो नरः ॥ १४ ॥ येन विज्ञानमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् ॥ प्रतिमां कारयेद्देवि ! पलेन रजतस्य च । पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे ॥ हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा । गर्त्तं कृत्वा सार्द्धहस्तं यत्र निःक्षिप्य सुन्दरि ! ॥ रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः । चतुर्द्दिक्षु महेशानि ! पताका विनिवेशयेत् ॥ रक्तासने चोपविश्य पूर्ब्बास्यो जपमारभेत् । पूजाया नियमं देवि ! जानीहि नगनन्दिनि ॥ तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः । प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः ॥ अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् । दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः ॥ प्रणवं पूर्ब्बमुच्चार्य्य मायाबीजं द्वितीयकम् । का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् ॥ ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् । साध्यनाम ततो न्यस्य वशमानय तत्परम् ॥ वह्निजायावधिर्म्मन्त्रो जपेद्दशसहस्रकम् । दशांशादिप्रमाणेन होमादींश्च समाचरेत् ॥ प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जिते- न्द्रियः । प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि ॥ जपे समाप्ते देवेशि ! हुनेद्दिने दिने शुभे । जातीपुष्पस्य होमेन वशयेन्नात्र संशयः ॥ कर्पू रमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् । पूर्ब्बं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः ॥ तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! । अनेनैव विधानेन संतर्प्य परदेवताम् ॥ सिद्धिः प्रयोगाद्देवेशि ! जायते नात्र संशयः । अभिषेकं ततः कुर्य्यात् शङ्करि प्राणवल्लभे ॥ प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् । अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत् ॥ तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा । एवं कृते महेशानि ! वशीकरणमुत्तमम् ॥ जायते नात्र सन्देहः सत्यं सत्यं न संशयः । कामतुल्यश्च नारीणां रिपूणां शमनोपमः ॥ यावज्जीवितपर्य्यन्तं स्मरबाण इवेश्वरि ! । जायते नात्र सन्देहः सत्यं सुरगणार्च्चिते ॥ * ॥ श्लेतापराजितामूलं पेषयेद्रोचनायुतम् । शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः ॥ वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! । चन्द्रसूर्य्यौ यदि वृथा तदा निष्फलभाग्भवेत् ॥ रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः । सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये ! ॥ आद्यन्ते महतीं पूजां कुर्य्यात्तस्या वरानने ! । पञ्चदिनप्रयोगेण राजानं वशमानयेत् ॥ तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम् ॥” इति बृहन्नीलतन्त्रम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशीकरण¦ न॰ अवशः वशः क्रियतेऽनेन वश--च्वि--कृ--ल्युट्। तन्त्राद्युक्ते वशतासम्पादके मणिमन्त्रादौ।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशीकरण¦ n. (-ण)
1. Subduing or overcoming by drugs, charms, &c., [Page637-a+ 60] enchanting, charming.
2. Subduing in general. E. वश subduing, and करण making, च्वि augment, leaving ई।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशीकरणम् [vaśīkaraṇam], 1 Fascinating, attracting.
A cause of attraction or allurement; एकैकमेव हि वशीकरणं गरीयः Māl.6.17.
Subduing, subjugation.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वशीकरण/ वशी--करण n. the act of making subject , subjugating , bewitching (by means of spells etc. ) , overcoming by charms and incantations etc. (with gen. or ifc. ) Pa1rGr2. R. Pan5cat. etc.
