वश्च
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वश्च, ऊ श छेदे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-वेट् ।) दन्त्योपधः चयोगात् तालव्यः । तेन क्विपि शच्छ्राजेति षङि निमित्ताभावे नैमि- त्तिकस्याप्यभाव इति न्यायात् तालव्यस्य दन्त्यत्वे संयोगादेः सस्य लोपे सुवृट् इति । तथा च । “नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजः शकारः स्यात् षाट्टवर्गस्तवर्गजः ॥” इति वोपदेवः ॥ अस्यार्थः । धातुषु मध्ये झलि झसे परे अनु- स्वारपञ्चमौ नकारजौ ज्ञेयौ तालव्यशकारश्च दन्त्यसकारजातः मूर्द्धन्यषकारात् परष्टवर्गोऽपि तवर्गजातो ज्ञेय इति । ञिष्ठास्थाने इत्यादी- नाञ्च थकारादिप्रकृतित्वे तस्थौ इत्यादिबोध्यम् । ऊ, अव्रश्चीत् अव्राक्षीत् । श, वृश्चति । इति दुर्गादासः ॥
