वष्कयणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वष्कयणी, स्त्री, (वष्कय एकहायनो वत्सः । तेन नीयते इति । नी + क्विप् । गौरादित्वात् ङीष् । “पूर्ब्बपदात् संज्ञाया- मगः । ८ । ४ । ३ । इति णत्वम् । वष्कयि- णीति पाठे । वष्कयोऽस्त्यस्या इति । “अत इनि ठनौ ।” इति इनिः । अट् कुप्वाङिति णत्वम् ।) चिरप्रसूता गौः । इत्यमरः ॥ “वष्कते परिक्रामति वष्कयश्चिरकालीनवत्सः वक्ना इति ख्यातः । वष्क ङ गतौ नाम्नीति अयः वष्कयस्त्वेकहायनो वत्स इति कोषः तद्योगात् वष्कयिणी नैकाजादिति इन् । वष्कयणीति पाठे गोतृणेत्यादिनापामादित्वात् नः नदा- दित्वादीप् । दुष्यमुषती गवेषितवष्कयिणीति मूर्द्धन्यषमध्ये गदसिंहः ।” इति तट्टीकायां भरतः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वष्कयणी¦ स्त्री वष्कयमेकहायनवत्सं नयति स्थानान्तरंनी--ड गौरा॰ ङीष् णत्वम्। चिरप्रसूतायां गविअमरः। जात्या समासेऽस्य परनि॰ गोवष्कयणो।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वष्कयणी¦ f. (-णी) A cow bearing many calves. E. वष्कय a calf, नी to have, affs. ड and ङीष्; also वष्कय, with इनि and ङीप् affs., वष्कयिणी |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वष्कयणी [vaṣkayaṇī] वष्कयिणी [vaṣkayiṇī], वष्कयिणी A cow that has full-grown calves; (चिरप्रसूता गौः).