सामग्री पर जाएँ

वसन्तकुसुमाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वसन्तकुसुमाकरः, पुं, औषधविशेषः । यथा, -- “प्रवालरसमौक्तिकाम्बरमिदं चतुर्भगभाक् पृथक् पृथगथ स्मृते रजतहेमतो द्व्यंशके । अयोभुजगरङ्गकं त्रिलवकं विमर्द्याखिलं शुभेऽहनि विभावयेत् भिषगिदं धिया सप्तशः ॥ द्रवैर्वृषनिशेक्षुजैः कमलमालतीपुष्पजैः पयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः । वसन्तकुसुमाकरो रसपतिर्द्विवल्लोऽशितः समस्तगदहृद्भवेत् किल निजानुपानैरयम् ॥” इति वृद्धयोगतरङ्गिणी ॥ (अथापरश्च । “द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः । चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकन्तथा ॥ भावयेद्गव्यदुग्धेन भावनेक्षुरसेन च । वासालाक्षारसोदीच्यरम्भाकन्दप्रसूनकैः ॥ शतपत्ररसेनैव मालत्याः कुङ्कुमोदकैः । पश्चाद्मृगमदैर्भाव्यं सुगन्धिरससम्भवम् ॥ कुसुमाकरविख्यातो वसन्तपदपूर्ब्बकः । गुञ्जाद्वयेन संसेव्यः सितामध्वाज्यसंयुतः ॥ मेहघ्नः कान्तिदश्चैव कामदः पुष्टिदस्तथा । वलीपलितनाशश्च श्रुतिभ्रंशं विनाशयेत् । पुष्टिदो बल्य आयुष्यः पुत्त्रप्रसवकारणः ॥ प्रमेहान् विंशतिञ्चैव क्षयमेकादशन्तथा । तथा सोमरुजं हन्ति साध्यासाध्यमथापि वा ॥” इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधि- कारे ॥)

"https://sa.wiktionary.org/w/index.php?title=वसन्तकुसुमाकर&oldid=164523" इत्यस्माद् प्रतिप्राप्तम्