सामग्री पर जाएँ

वसुदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वसुदः, पुं, (वसूनि ददातीति । दा + कः ।) कुबेरः । इति धनदशब्ददर्शनात् ॥ (यथा, हरिवंशे । ८१ । १५ । “सनन्दगोपस्य गृहं वासाय वसुदोपमः । अवतीर्य्य ततो यानात् प्रविवेश महाबलः ॥” * ॥ वसु धनं ददातीति । विष्णुः । यथा, महा- भारते । १३ । १४९ । ४२ । “सुभुजो दुर्द्धरो वाग्मी महेन्द्रो वसुदो वसुः ॥”) धनदातरि, त्रि ॥ (यथा, महाभारते । १२ । १२० । ३० “अमोघक्रोधहर्षस्य स्वयंकृत्यान्ववेक्षितुः । आत्मप्रययकोषस्य वसुदैव वसुन्धरा ॥”)

"https://sa.wiktionary.org/w/index.php?title=वसुदः&oldid=164558" इत्यस्माद् प्रतिप्राप्तम्