वह्निमन्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वह्निमन्थः, पुं, (वह्नये अग्न्युत्पादनार्थं मथ्यते इति । मन्थ + घञ् ।) गणिकारिकावृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, -- “तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः । वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥” इति वैद्यकरत्नमालायाम् ॥) अग्निमन्थः । इति राजनिर्घण्टः ॥
