वाक्पतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाक्पतिः, पुं, (वाचां पतिः ।) बृहस्पतिः ॥ इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ८ । १५ । “उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् ॥”)
वाक्पतिः, त्रि, (वाचां पतिरिव पटुत्वात् ।) उद्दामवचनः । इति रायमुकुटः ॥ अनवद्यो- द्यमादिपटुवचनः । इति भरतः ॥ स्वबुद्ध्या वाक्यरचकः । इति सारसुन्दरी ॥ पटुवचनः । इति पदार्थकौमुदी ॥ व्यक्तवाग्जनः । इति नीलकण्ठः ॥ तत्पर्य्यायः । वागीशः २ । इत्य- मरः ॥ अनवद्योद्यमवचाः ३ । इति जटाधरः ॥ “वाग्मी वाग्मिर्वावदूको वाचो युक्तिपटुस्तथा । वागीशो वाक्पतिश्चेति षडेते सुष्ठुवक्तरि ॥” इति शब्दरत्नावली ॥ (यथा, हरिवंशे । २१५ । ३४ । “सम्भवं सर्व्वलोकस्य विदधाति स वाक्पतिः ॥”)
