वाक्पारुष्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाक्पारुष्यम्, क्ली, (वाचा कृतं पारुष्यम् ।) अप्रियवाक्योच्चारणम् । तत्तु सप्तधाव्यसनान्त- र्गतव्यसनविशेषः । यथा, -- “मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतज्ज्ञेयं व्यसनसप्तकम् ॥” इति हेमचन्द्रः ॥ * ॥ तल्लक्षणं नारदेनोक्तम् । “देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥” देशादीना आक्रोशन्यङ्गसंयुतम् । उच्चैर्भाषण- माक्रोशः न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थं उद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते ॥ तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्य- मभिधाय तल्लक्षणं तेनैवोक्तम् । “निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । गौरवानुक्तमात्रस्य दण्डोऽपि स्यात् क्रमाद्- गुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुर्म्मनीषिणः ॥” इति ॥ तत्र निष्ठुराक्रोशे स्ववर्णविषये दण्डमाह । “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपङ्करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥ काणञ्चाप्यथवा खञ्चमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥” इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्त्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् । “मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः ॥” इति च ॥ एतच्च सापराधेषु मात्रादिषु गुरुषु निरप- राधायाञ्च जायायां द्रष्टव्यम् ॥ * ॥ अश्लीला- क्षेपे दण्डमाह । “अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन् तन्दापयेद्राजा पञ्चविंशतिकं दमम् ॥ दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः । प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ॥ वणानामानुलोम्येन तस्मादर्द्धार्द्धहानितः ॥” * ॥ मनुः । “शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति । वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ पञ्चशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने । वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः ॥ बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्द्धिकः पादो नासाकर्णकरादिषु ॥ अशक्तस्तु वदन्नेव दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसः । त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥” इति मिताक्षरा ॥ * ॥ वाक्पारुष्ये अभियोगमनिस्तीर्य्य प्रत्यभियोजने प्रतिप्रसवो यथा, -- “कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ।” वाक्पारुष्ये शस्त्रादिप्रहारेषु च यथा पूर्व्व- महमप्यनेनाक्रुष्टः शस्त्रेण हतः इत्यपराधा- भावाय प्रत्यभियोगं कुर्य्यात् । इति व्यवहार- तत्त्वम् ॥
