सामग्री पर जाएँ

वाग्दुष्ठः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाग्दुष्ठः, त्रि, (वाचा शुद्धेऽपि वस्तुनि अशुद्ध- रूपत्वदुर्व्वाक्येन दुष्टः ।) वाचा दोषयुक्तः । यथा, -- “वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा । वाससा चावधूतानि वर्ज्ज्यानि श्राद्धकर्म्मणि ॥” इति श्राद्धतत्त्वम् ॥ * ॥ तदन्नभक्षणप्रायश्चित्तम् । तत्र शङ्खः । “वाग्दुष्टं भावदुष्टञ्च भाजने भावदूषिते । भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रन्तु व्रती भवेत् ॥” एतदभ्यासे व्रती यावकेन तत्र द्वादशपणा देयाः । इति प्रायश्चित्तविवेकः ॥

"https://sa.wiktionary.org/w/index.php?title=वाग्दुष्ठः&oldid=164778" इत्यस्माद् प्रतिप्राप्तम्