सामग्री पर जाएँ

वाचकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाचकः, पुं, (वक्ति अभिधावृत्त्या बोधयत्यर्थान् इति । वच् + ण्वुल् ।) शब्दः । यथा । शास्त्रे शब्दस्तु वाचकः । इत्यमरः ॥ द्वे वाचके । प्रकृतिप्रत्ययद्वारेणार्थस्य वाचको गवादिरूपः शास्त्रे व्याकरणे तर्कादौ च शब्द उच्यते । लोके तु संस्वृतोऽसंस्कृतः शब्द उच्यते । वक्तीति वाचकः णकः । इति भरतः ॥ तत्पर्य्यायः । यथा । शब्दाभिलापौ त्वभिधाभिधानं वाचको ध्वनिः । ह्रासः कुहरितञ्चेति त्रिकाण्ड- शेषः ॥ * ॥ (तल्लक्षणं यदुक्तं मुग्धबोधटीकायां दुर्गादासः । “साक्षात् सङ्केतितं योऽर्थमभिधत्त स वाचकः ॥ * ॥ वाचयतीति । वच् + णिच् + ल्वुल् ।) कथकः । पुराणादिपाठकः । यथा, -- “ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥” तथा । “देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ! । पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ॥ हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः । दत्त्वा तु वाचकायेह श्रुतस्याप्नोति तत्फलम् ॥” कांस्योपदोहनाः कांस्यक्रोडाः । “वाचकः पूजितो शेन प्रसन्नास्तस्य देवताः ॥” तथा । “ज्ञात्वा पर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः । आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥” तथा । “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥ बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप । ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थं चार्पयेन्नृप ! । य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥” तथा । “सप्तस्वरसमायुक्तं काले काले विशाम्पते । प्रदर्शयन् रसान् सर्व्वान् वाचयेद्वाचको नृप ! ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=वाचकः&oldid=164802" इत्यस्माद् प्रतिप्राप्तम्