सामग्री पर जाएँ

वाचालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाचालः, त्रि, (बहु कुत्सितं भाषते इति । वाच् + “आलजाटचौ बहुभाषिणि ।” ५ । २ । १२५ । इति आलच् ।) बहुकुत्सितभाषी । तत्पर्य्यायः । जल्पाकः २ वाचाटः ३ । इत्यमरः ॥ सुबहु- भाषिण्यपि जल्पाकादयस्त्रयो वर्त्तन्ते वाचाटो वाचालो जल्पाकः सुबहुभाषी स्यादिति श्लोकार्द्धपर्य्याये वोपालितः । नित्यप्रगल्भ- वाचालामुपतिष्ठे सरस्वतीम् । इति मुरारि- रिति तट्टीकायां भरतः ॥ (यथा, कथा- सरित्सागरे । ४० । ३४ । “वाचालैः कलहः क्लीवैस्त्रपाकृद्बाहुशालि- नाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वाचालः&oldid=164815" इत्यस्माद् प्रतिप्राप्तम्